१६८

असमातिं राथप्रौष्ठं गौपायना अभ्यदासन् ।

ते खाण्डवे सत्रमासत ।

अथ हासमातौ राथप्रौष्ठे किराताकुली ऊषतुरसुरमायौ ।

तौ ह स्मानग्नावधिधायौदनं पचतोऽनग्नौ मांसम् ।

वपन्तौ ह स्म पुरस्तादितो लोनन्तो ह स्म पश्चादनुयन्ति तावन्मायाविनौ हासतुः ।

तद्वै तच्छश्वदिक्ष्वाकवोऽसुराशनं जग्ध्वा पराभूताः ।

तमसमातिं राथप्रौष्ठं गौपायनानामाहुतयोऽभ्यतपन् ।

सोऽब्रवीदिमौ किराताकुली इमा वै मा गौपायनानामाहुतयोऽभितपन्तीति ।

तावब्रूतां तस्य वा आवमेव भिषजौ स्व । आवं प्रायश्चित्तिर् । आवं तथा करिष्यावो यथा त्वैता नाभितप्स्यन्तीति ।

तौ परेत्य सुबन्धोर्गौपायनस्य स्वपतः प्रमत्तस्यासुमाहृत्यान्तःपरिधि न्यधत्ताम् ।

परिधिमन्तो ह तर्ह्यग्नय आसुः ।

तत्सुबन्धावप्रबुद्धेऽन्वबुध्यन्ताहार्ष्टां वा अस्यासुमसुरमायाविति ।

तेऽब्रुवन्नेत सुबन्धोरसुमन्वयामेति ।

ते खाण्डवात्प्रायन्

मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।

मान्त स्थुर्नो अरातयः

यच्चेदमिमो यच्च सत्रमास्महे तस्मादुभयस्मान्मा प्रगामेति ते सुबन्धुनावतन्तुमता सुबन्धुतीर्थेनैव ह्वृणिनीं प्राञ्चस्तीर्त्वागच्छन्नसमातिं राथप्रौष्ठम् १६८