छन्दांसि यदमुमादित्यमुदयच्छंस्तानि नाशक्नुवन्नुद्यन्तुम् ।
तानि द्विपदाञ्छन्दांस्यब्रुवंस्त्वयि प्रतिष्ठायैतमुद्यच्छामेति ।
तानि वै मेऽन्नं भवतेति ।
अन्नं ते भवाम इत्यब्रुवन् ।
तद्ब्राह्मणो ह वै छन्दो द्विपदस् । तान्यस्यैतान्यन्नमिह चामुत्र च ।
तान्येतानि छन्दांसि द्विपदायां प्रतिष्ठायैतमादित्यमुद्यच्छन्त्येतांश्च यज्ञक्रतून् ।
तद्यत्पृच्छेयुः कस्माद्द्विपदष्षष्ठेऽहन्क्रियन्त इति । प्रतिष्ठित्या इत्येव ब्रूयात् ।
तस्मादेता अत्र नान्तरित्याः ।
ता एता भवन्त्यग्ने
त्वं नो अन्तम
इति १६७