अथ यज्ञायज्ञीयमुक्तब्राह्मणम् ।
अथैता द्विपदो भवन्ति । छन्दसामयातयामताया अवरुद्ध्यै ।
यातयामानि वा एतर्ह्यहानि छन्दांसि । द्विपद एवायातयाम्नीः ।
ता यदत्र क्रियन्ते तेनैवैतदहरयातयाम क्रियते ।
तद्ध स्म केशी दार्भ्य उपगायति
सर्वदैव गिरौ भद्र मपि पर्णेन जीवति ।
यदावसं न विन्दति तदाशा उपधावति
इति ।
यादृगिव स्युरेव ब्राह्मणास्तादृगिदं यूयं कुरुथाप्तेषु छन्दस्सु द्विपद इति ।
पशवो वै पृष्ठ्यष्षडहः । पुरुष छन्दसां द्विपदः ।
ता यदत्र क्रियन्ते पुरुषमेव तत्पशुष्वध्यूहन्ति ।
तस्मात्पुरुष उपरिष्टात्पशूनधीव तिष्ठति ।
अथो स्वर्ग एष लोको यत्पृष्ठ्यष्षडहो । यजमान एष निदानेन यद्द्विपदः ।
ता यदुपरिष्टात्पृष्ठ्यस्य षडहस्य पर्यूहन्ति यजमानमेव तत्स्वर्गे लोके समुदूहन्ति १६६