तासु श्नौष्टम् ।
एतेन वा अग्निर्वैश्वानरो दीदाय ।
दीदयामेति सत्रमासते ।
दीदयन्त्येवैनमेतेन ।
अथ ह वा अग्निर्वैश्वानर इत्थमेवास यथेमेऽङ्गाराः ।
सोऽकामयत श्नुष्टयो मे जायेरन्नचर्य इति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै तस्य श्नुष्टयोऽर्चयोऽजायन्त ।
एते ह वा अस्य श्नुष्टयो यदर्चयः ।
तेजो वा अस्य तद्ब्रह्मवर्चसमजायत ।
तेजस्वी ब्रह्मवर्चसी श्नुष्टिमान्भवति य एवं वेद ।
तदु निषिद्धमिव भवत्यन्तस्य रूपम् ।
अन्तो ह्येतदहः ।
तद्यथा वा अदोऽनयनं यन्तमेहीह मात्रैरित्यनुह्वयेदेवमेवैतेन स्तोमा आप्ता अन्ततोऽनुह्वयन्ति १६५