१६४

अथ मधुश्च्युन्निधनं बार्हतम् ।

तस्माद्बार्हतेऽहन्क्रियते -अथोऽन्तो वै रसानां मध्वन्त स्वर्गो लोकानाम् । अन्त एतदहरन्त्येन साम्नान्त्यं स्वर्गं लोकमश्नवामहा इति ।

अथ क्रौञ्चे ।

क्रुङ्ङाङ्गिरस ईष्यमिवाहरविन्दत् ।

ईष्यमिवैतदहर्यत्षष्ठम् ।

तस्मात्षष्ठेऽहनि क्रियेते ।

ते उ एवाचक्षत उद्वच्च शाम्मदं चेति ।

उद्वता वै देवा ऊर्ध्वा स्वर्गं लोकमुदक्रामन् ।

यदूर्ध्वा स्वर्गं लोकमुदक्रामंस्तदुद्वत उद्वत्त्वम् ।

तदेतद्स्वर्ग्यं साम ।

ऊर्ध्व एवैतेन स्वर्गं लोकमुत्क्रामति य एवं वेद ।

अथ शाम्मदम् ।

देवेभ्यो वै विजिग्यानेभ्य इमे लोका बिभ्यतो व्युदक्रामन् ।

तेऽकामयन्ताभि न इमे लोका आवर्तेरन् ।

नास्मदपक्रामेयुरिति ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

ततो वै तानिमे लोका अभ्यावर्तन्त ।

तत एभ्योऽनपक्रामिणोऽभवन् ।

तेऽब्रुवञ्छं वै न इमे लोका अमादिषुरिति ।

तदेव शाम्मदस्य शाम्मदत्वम् ।

शमस्मा इमे लोका मदन्त्यभ्येनमिमे लोका आवर्तन्ते ।

नास्मादिमे लोका अपक्रामन्ति य एवं वेद ।

तदूर्ध्वेळं भवति बृहतो रूपं बार्हतेऽहन् ।

तेन वै रूपसमृद्धम् ।

अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व ।

ब्रध्नश्चिद्यस्य वातो न जूतिं पुरुमेधश्चित्तकवे नरं धात्

इति रूति रेवतीनां रूपम् १६४