१६३

तामु कार्णश्रवसम् ।

इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानस्स व्यस्मयत ।

तस्य कर्णौ समैषताम् ।

ताम्यां नाशृणोत् ।

सोऽकामयताबधिर स्यां । शृणुयां कर्णाभ्यामिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै सोऽबधिरोऽभवद् । अशृणोत्कर्णाभ्याम् ।

सोऽब्रवीदश्रौषं वै कर्णाभ्यामिति ।

तदेव कार्णश्रवसस्य कार्णश्रवसत्वम् ।

अबधिरो भवति । शृणोति कर्णाभ्यां य एवं वेद ।

तद्वेवाचक्षते गौलोममिति ।

गोलोमा आङ्गिरसः पशुकामस्तपोऽतप्यत ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

स एतामिळामुपैत् ।

पशवो वा इळा ततो वै स पशूनवारुन्द्ध ।

तदेतत्पशव्यं साम ।

अव पशून्रुन्द्धे । बहुपशुर्भवति य एवं वेद ।

यदु गोलोमा आङ्गिरसोऽपश्यत्तस्माद्गौलोममित्याख्यायते ।

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः ।

मित्रा स्वाना अरेपस

इति रूति रेवतीनां रूपम् ।

तासु गौरिवीतमुक्तब्राह्मणम् १६३