तासु दीर्धं बृहतामेकम् ।
एतेन ह वा एतदहर्बार्हतं क्रियते ।
देवा वै स्वर्गकामास्तपोऽतप्यन्त ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तदेनान्दीर्घमेव भूत्वा स्वर्गं लोकमवहत् ।
तेऽब्रुवन्स्वर्गं लोकं गत्वा दीर्घं वाव नो भूत्वेदं साम स्वर्गं लोकमवाक्षीदिति ।
तदेव दीर्घस्य दीर्घत्वम् ।
तदेतत्स्वर्ग्यं साम ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
तं वः सखायो मदाये
ति मद्वतीर्भवन्ति ।
अभिपूर्वमेवैतत्तृतीयसवने रसं मदं दधति ।
पुनानमभि गायत ।
शिशुं न हव्यै स्वदयन्त गूर्तिभिः
इति पशुरूपमेवैतदुपगच्छन्ति ।
पशूनां वै शिशुर्भवति ।
सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यत
इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।
पशवो ह्येतदहः ।
देवावीर्मदो मतिभिः परिष्कृत
इति परिवतीर्भवन्त्यन्तस्य रूपम् ।
अन्तो ह्येतदहः १६२