१६१

अथ ह मद आसुरो बिभयाञ्चकार ।

स होवाच मा मां मोघायोदाह्वयत वि मां निधत्तेति ।

तेऽब्रुवन्पास्याम इति मन्यमानास्सुरामाहराम वरुणस्यान्धसोऽधि ।

तस्यां नैवासीत्कतमश्चनार्तस्सामर्त्यानीति ।

तत्र मद परेहीति ।

स एष मद आसुरस्सुरायां विनिहितः ।

स सुन्वे यो वसूनां यो रायाम्

इति रूति रेवतीनां रूपम् १६१