ते देवा अक्रुध्यन्न् । अक्रुध्यन्नृषयः ।
ते नवनवतयो मरुत ऋष्टिहस्ता अतिष्ठन्निदानीमिदं पर्याकरिष्यामोऽथेदं सर्वं मर्दिष्यत इति ।
अथ ह ऋषयो मदमासुरमुदाह्वयन् ।
स उत्तृन्दन्नेवान्तरिक्षं शीर्ष्णाभ्यधात् । सा महती समदासीत् ।
सोऽग्निरिन्द्र मब्रवीद्व्येतु ते क्रोध श्रेयांसो वा एतेऽस्मत् ।
यदि वा एतान्क्रोधयिष्यति नेह किं चन परिशेक्ष्यते ।
एतेभ्यो वै वयं जातास्म इति ।
तस्याग्निरेव क्रोधं व्यनयत् ।
स इन्द्रो वीतक्रोधस्सह देवैः प्राद्र वत् ।
तेषामपेन्द्रो ऽपदेवो यज्ञोऽभवत् ।
तेऽकामयन्त सेन्द्रो नस्सदेवो यज्ञ स्यादिति ।
स एतानि विदन्वान्भार्गवस्सामान्यपश्यत् ।
तैरस्तुत ।
तैरिन्द्र माह्वयत् ।
तैरस्य क्रोधं व्यनयत् ।
ततो वै तेषामिन्द्रो यज्ञमुपावर्तत ।
तत एभ्योऽनपक्रम्याभवत् ।
तत एषां सेन्द्र स्सदेवो यज्ञोऽभवत् ।
तानि वा एतानि सेन्द्रा णि सदेवानि सामानि ।
सेन्द्रो हास्य सदेवो यज्ञो भवत्य् । अभ्यस्येन्द्रो यज्ञमावर्तते । नास्येन्द्रो यज्ञादपक्रामति य एवं वेद ।
पशवो ह खलु वै विदन्वन्त । एता ऋचो विदन्वतीः ।
तास्वेतमृषभं वैदन्वतमपिसृजन्ति मिथुनत्वाय प्रजननाय ।
प्र मिथुनेन जायते य एवं वेद ।
यदु विदन्वान्भार्गवोऽपश्यत्तस्माद्वैदन्वतानीत्याख्यायन्ते १६०