१५९

परि स्वानो गिरिष्ठा

इत्यार्भवस्य पवमानस्य परिवतीर्गायत्र्यो भवन्त्यन्तस्य रूपम् ।

अन्तो ह्येतदहः ।

पवित्रे सोमो अक्षरत् ।

मदेषु सर्वधा असि

इति मद्वतीर्भवन्ति ।

रसो वै मदः ।

धीतमिवैतद्यत्तृतीयसवनम् ।

तद्यदेता मद्वतीर्भवन्ति रसमेवास्मिन्नेतद्दधत्यैवैनदेतेन प्याययन्ति ।

त्वं विप्रस्त्वं कविर्

इति त्वमिति भवति बृहतो रूपम् ।

बार्हतमेतदहः ।

मधु प्र जातमन्धसा ।

मदेषु सर्वधा असि

त्वे विश्वे सजोषसः

इति विश्ववतीर्भवन्ति ।

वैश्वदेवं ह्येतदहः ।

देवासः पीतिमाशत ।

मदेषु सर्वधा असि

इत्युपरिष्टादुदर्कं दधति ।

रसो वै षष्ठमहस् । तस्यानतिनेदाय ।

तासु गायत्रमुक्तब्राह्मणम् ।

अथ त्रीणि वैदन्वतानि ।

शर्यातो वै मानवः प्राच्यां स्थल्यामयजत ।

तं हर्षयो याजयाञ्चक्रुः ।

तदुभये देवमनुष्यास्सोमं समपिबन् ।

तदुभयैर्देवमनुष्यैरुत्तमं सोमस्सम्पीतः ।

तस्मिंश्च्यवनो भार्गवोऽश्विभ्यां ग्रहमगृह्णात् ।

तमिन्द्र श्चमसमवागृह्णात्कोऽयमज्ञातश्चमसः प्रचरतीति ।

तस्य विदन्वान्भार्गवः प्रत्यहन् । कस्तं चमसं मीमांसितुमर्हति यं वयं प्रयच्छेमेति १५९