तासु श्येनस्सम्पारणोऽनपहानाय क्रियते ।
श्येनो ह वा एतदहस्सम्पारयितुमर्हति ।
देवा वै स्वर्गकामास्तपोऽतप्यन्त ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तदेनाञ्छ्येन एव भूत्वा स्वर्गं लोकमवहत् ।
तेऽब्रुवन्स्वर्गं लोकं गत्वा श्येनो वाव नो भूत्वेदं साम स्वर्गं लोकमवाक्षीदिति ।
तदेव श्येनस्य श्येनत्वम् ।
तदेतत्स्वर्ग्यं साम ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
इन्द्रो वा एतेन साम्ना श्येनो भूत्वा असुरानपावपत् ।
तद्वेव श्येनस्य श्येनत्वम् ।
तदु भ्रातृव्यहा ।
हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा ।
पशुष्वेवैतत्प्रतितिष्ठन्ति १५८