तास्वृषभो रैवतः ।
पशवो वै सिमाः । पशवो रेवतयः । पशव ऋषभः ।
ऋषभमेवैतत्पशुष्वपिसृजन्ति मिथुनत्वाय प्रजननाय ।
प्र मिथुनेन जायते य एवं वेद ।
तस्य पूर्वार्धं च भूयिष्ठं भाजयन्ति ।
तस्मात्पशवः पूर्वार्धेन च जघनार्धेन च भूयिष्ठं भुञ्जन्ति वहन्ति ।
पूर्वार्धेन दुह्रे च जघनार्धेन प्र च जनयन्ति ।
उभयं धेनुपयसं चानडुत्पयसं चावरुन्द्धे य एवं वेद ।
उभे यदिन्द्र रोदसी
इति षट्पदाष्षष्ठेऽहन्भवन्ति ।
तेनैव षडहानि कल्पन्ते ।
देवासुराः पशुष्वस्पर्धन्त ।
तेऽसुराः पशुभिस्सह समुद्र मभ्यवायन् ।
ते देवा अकामयन्त वृञ्जीमह्यसुराणां पशूनिति ।
त एतानङ्कानपश्यन्नेता ऋचो
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनद्
इति ।
एतदङ्कं रूपम् ।
तैरुदारुम्पंस्तान्पशून् ।
ता एताः पशव्या ऋचः ।
अव पशून्रुन्द्धे बहुपशुर्भवत्येताभिरृग्भिस्तुष्टुवानः १५७