तदु होवाचाभिप्रतारणो जीर्णश्शयानः ।
पुत्रा हास्य दायं विभेजिरे ।
स ह घोष आस ।
को घोष इति ।
तस्मै होचुः पुत्रास्ते भगवो दायं विभजन्त इति ।
स होवाच सुश्रवा वा अहं तत्पृष्ठानां ब्राह्मणे जीवतोऽस्य पुत्रा दायमुपयन्तीति ।
सुश्रवा वा अहं तदिति ।
तदेतद्यथा जीवतो दायमुपेयादेवं तद्यद्रै वतेऽहनि सति वारवन्तीयं पृष्ठं भवति ।
अथेतरत्पवमाने कुर्वन्ति ।
अथ ह गैरेय आषाढिरषाढं भाल्लबेयं पप्रच्छ यदिमानि यद्बहूनि सामानि कथं षष्ठायाह्ने न प्राभवन्निति ।
स होवाच त्वत्वादृशाष्षड्राजानः पञ्चालेषु वेद्या इति ।
स होवाचैवं न्यूनं त्वं वेत्थान्यथा वयमतो विद्मेति ।
स यदेवैतदपृष्ठं पृष्ठं वारवन्तीयं क्रियते तेनैवैतदहरप्रभूतम् ।
अथ ह नैतत्नव आरुणिं पप्रच्छारुण आरुणे कस्मादरेतोधास्सत्यो महानाम्नयः प्रजनयन्ति ।
कस्मादु रेतोधास्सत्यो रेवतयो न प्रजनयन्तीति ।
यद्र इति रेत एव प्रथमेनाभिव्याहरतीति ।
तद्ध न प्रत्युवाच ।
तेन हैनं जिगाय ।
स यत्प्रत्यवक्ष्यद्रे तो वै रेवतयो रेत उ रैवतं साम । न वै रेतसो रेतोऽस्ति ।
पुत्र एवैतर्हि रेतोऽन्तमेतत्पृष्ठानि गच्छन्ति ।
यदा षष्ठमहरागच्छन्ति नातः पराञ्च प्रजायन्ते ।
तस्मादरेतोधास्सत्यो महानाम्नयः प्रजनयन्ति ।
तस्मादु रेतोधास्सत्यो रेवतयो न प्रजनयन्तीति ।
अथ वामदेव्यम् ।
पशवो वै वामदेव्यम् ।
पशुमन्त एव भवन्त्येनेन तुष्टुवानाः ।
सुंरूपकृत्नुमूतय
इत्यभ्यारम्भेण षट्पदाष्षष्ठेऽहन्भवन्ति ।
तेनैव षडहानि कल्पन्ते १५६