प्रजापतिर्वा एतं यज्ञमसृजत यत्पृष्ठ्यं षडहम् ।
स सृष्टः प्राद्र वत् ।
तं रथन्तरेणाविवारयिषत ।
तं नावारयत ।
तं बृहता नावारयत ।
तं वैरूपेण नावारयत ।
तं वैराजेन नावारयत ।
तं महानाम्नीभिर्नावारयत ।
तं रेवतीभिर्नैववारयत ।
तं वारवन्तीयेनैवावारयत ।
यदवारयत तद्वारवन्तीयस्य वारवन्तीयत्वम् ।
तद्यद्वारवन्तीयं पृष्ठं भवति यज्ञस्यैव वारणायै ।
प्रजापतिर्वा एतं यज्ञमसृजत यत्पृष्ठ्यं षडहम् ।
तस्मै प्रतिष्ठामैच्छत् ।
तस्मा अप एवाविन्दत् ।
तासु रथन्तरेण प्रतिष्ठामैच्छत् ।
स नाविन्दत् ।
तासु बृहता नाविन्दत् ।
तासु वैरूपेण नाविन्दत् ।
तासु वैराजेन नाविन्दत् ।
तासु महानाम्नीभिर्नाविन्दत् ।
तासु रेवतीभिर्नैवाविन्दत् ।
तासु वारवन्तीयेनैवाविन्दत् ।
यदविन्दत्तद्वेव वारवन्तीयस्य वारवन्तीयत्वम् ।
अस्यामेवैतद्यज्ञं प्रतिष्ठापयन्ति ।
अग्निर्वा एष वैश्वानरो यद्वारवन्तीयम् ।
आप उ रेवतयः ।
तद्यद्रे वतीषु वारवन्तीयं भवति । तस्मादापोऽग्नियोनयः ।
जीर्यन्तीव वा एतत्पृष्ठानि यदा षष्ठमहरागच्छन्ति ।
न वै जीर्णे रेतः परिशिष्यते ।
तद्यद्वारवन्तीयं पृष्ठं भवत्युत्तरेषामेव यज्ञक्रतूनां प्रजात्यै १५५