रेवतीर्नस्सधमाद
इति रेवतयो भवन्ति ।
समादेवैतत्सममुपयन्ति ।
गायत्र्यो मध्यन्दिनस्यान्त्या भवन्ति ।
गायत्र्य एताः ।
स यथा समात्समं सङ्क्रामेत्तादृक्तत् ।
यातयामानि वा एतर्ह्यन्यानि छन्दांसि । गायत्र्येवायातयाम्नी ।
यातयामभि स्तोत्रैर्यातयामभिश्शस्त्रैर्वषट्कारो यातयाम ।
ऋतुमन्ति पञ्चाहान्यनृतु षष्ठम् ।
तद्यद्धोत्रा ऋतुयाजान्नाना वषट्कुर्वन्ति तेनैव षष्ठमहरृतुमत्क्रियते ।
तासु वारवन्तीयम् ।
एतद्ध वै रेवद्रै वत्यं यद्रे वतीषु वारवन्तीयम् ।
रेवान्भवत्यास्य रेवान्रैवत्यो जायते य एवं विद्वान्रेवतीषु वारवन्तीयेन स्तुते ।
एतद्वै बृहद्रै वत्यं यद्रे वतीषु वारयन्तीयम् ।
बार्हतं षष्ठमहः ।
तेनैव षष्ठमहर्बार्हतं क्रियते ।
अग्निर्वा एष वैश्वानरो यत्पृष्ठ्यष्षडहः ।
ऋतवो वै पृष्ठानि ।
संवत्सर ऋतवः ।
संवत्सरोऽग्निर्वैश्वानरः ।
सोऽशान्त ईश्वरः प्रदग्धोः ।
तद्यद्वारवन्तीयं पृष्ठं भवत्यग्नेरेव वैश्वानरस्य शान्त्या अप्रदाहाय १५४