अथ गोष्ठः ।
शक्वरीणां च वा एष रेवतीनां च गोष्ठः ।
पशूनां धृत्यै गोष्ठः ।
ध्रियन्तेऽस्मिन्पशवः ।
पशूमान्भवति य एवं वेद ।
प्रजापतिः पशूनसृजत ।
तेऽस्मात्सृष्टा अपाक्रामन् ।
तान्प्रथमेनाह्नाविवारयिषत ।
तान्नावारयत ।
तान्द्वितीयेन नावारयत ।
तांस्तृतीयेन नावारयत ।
तांश्चतुर्थेन नावारयत ।
तान्पञ्चमेन नैवावारयत ।
तान्षष्ठेऽहन्नेतेनैव साम्नावारयत ।
सोऽब्रवीद्गोष्ठो वाव म इदं पशूनां सामाभूदिति ।
तदेव गोष्ठस्य गोष्ठत्वम् ।
तदेतत्पशव्यं साम गोष्ठः ।
ध्रियन्तेऽस्मिन्पशवः ।
पशुमान्भवति य एवं वेद ।
तदु निषिद्धमिव भवतीहा इळा इहा इळा इति ।
एतद्ध वा एनांस्तदेतेन पुरस्ताद्वारयाञ्चक्रे ।
एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम्
इति यद्वै सिन्धुमत्समुद्र वत्तदेतस्याह्नो रूपम् ।
आपोभाजनमेतदहः ।
तदाहुर्यन्ति एते त्रिष्टुभः पवमानान्ताद्ये गायत्रीष्वन्त्यं कुर्वन्तीति ।
तास्सूर्यवतीर्भवन्ति ।
अथो षन्द्रीः ।
तेन त्रिष्टुभः पवमानान्तान्न यन्ति ।
तास्विहवद्वामदेव्यम् ।
पशवो वै सिमाः ।
पशवो रैवतम् ।
पशव इहवद्वामदेव्यम् ।
पशुमन्त इव भवन्त्येनेन तुष्टुवानाः ।
तदु निषिद्धमिवैव भवत्येतमु त्यं दश क्षिप इहा मृजन्ति सिन्धुमातरमिहे
ति एतद्ध वा एनांस्तदप्येतेनैव पुरस्ताद्वारयाञ्चक्रे १५३