१५२

अथ वरुणसाम ।

वरुणो वै राजा सधमादमिवान्याभिर्देवताभिरासीत् ।

सोऽकामयत सर्वेषां देवानां राज्याय सूयेयेति ।

स प्रजापतौ शतं वर्षाणि ब्रह्मचर्यमवसत् ।

तस्मा एतत्सामाब्रवीदेतद्वै मे राज्यं रूपम् ।

गच्छ ।

राजानं त्वा देवाः करिष्यन्त इति ।

स देवानभ्यैत् ।

तमायन्तं दृष्ट्वा देवाः प्रत्यवारोहन् ।

तानब्रवीन्मा मा प्रत्यवरुक्षत ।

भ्रातरो वै मम यूयं स्थ ।

यादृशा वै यूयं स्थ । तादृङ्ङहमस्मीति ।

नेत्यब्रुवन् ।

यद्वै नः पितुः प्रजापते रूपं तदिदं त्वयि पश्याम इति ।

तं प्रत्येवावारोहन् ।

तस्मा एतां राजासन्दीं न्यदधुः ।

तस्यामेनमभ्यषिञ्चन्त वसवो राज्याय रुद्रा वैराज्यायादित्या स्वाराज्याय विश्वेदेवास्साम्राज्याय मरुतस्सार्ववश्याय साध्याश्चाप्त्याश्च पारमेष्ठ्याय ।

तदेतच्छ्रीसवस्साम ।

अश्नुते श्रियं गच्छति राज्यं य एवं वेद ।

यदु वरुणो राजापश्यत् । तस्माद्वरुणसामेत्याख्यायते १५२