१५१

अथ वाजजित् ।

अन्नं वै वाजः ।

यदा वै गौरश्वः पुरुषोऽन्नस्य सुहितो भवति । अथ स वाजी भवति ।

देवासुरा अन्नाद्ये अस्पर्धन्त ।

ते देवा अकामयन्त वृञ्जीमह्यन्नाद्यमसुराणामिति ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

ते वाजिजिगीवेत्येवान्नाद्यमसुराणामवृञ्जत ।

तदेव वाजजितो वाजजित्त्वम् ।

तदेतदन्नाद्यस्यावरुद्धिस्साम ।

अवान्नाद्यं रुन्द्धे । वृङ्क्ते द्विषतो भ्रातृव्यस्यान्नाद्यं य एवं वेद ।

तत्पञ्चाक्षरणिधनं भवति ।

पाङ्क्तो वै यज्ञः ।

अतीव वा एते यज्ञस्य मात्रां क्रामन्ति य एतदहरागच्छन्ति ।

तद्यत्पञ्चाक्षरणिधनं भवति पाङ्क्तो यज्ञो यावती यज्ञस्य मात्र तां नेदतिक्रामामेति १५१