१५०

अथौक्ष्णोरन्ध्रम् ।

उक्ष्णो वै रन्ध्रः काव्योऽकामयताद्भिः प्रतीपं स्वर्गं लोकमारोहेयमप्सु मे वर्त्मानि पश्येयं नियानमिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै सोऽद्भिः प्रतीपं स्वर्गं लोकमारोहद् । अप्सु स्ववर्त्मान्यपश्यन्नियानम् ।

स ह वाव रौमण्वतः ।

स एवोशना काव्यः ।

स ह स यमुनयैव प्रतीपं स्वर्गं लोकमारोहत् ।

तदेतत्स्वर्ग्यं साम ।

अद्भिः प्रतीपं स्वर्गं लोकमारोहति य एवं वेद ।

यदुक्ष्णो रन्ध्रः काव्योऽपश्यत्तस्मादौक्ष्णोरन्ध्रमित्याख्यायते ।

अथो आपोनियानमिति । यदस्याप्सु नियानमपश्यत् १५०