१४९

मृज्यमानस्सुहस्त्या समुद्रे वाचमिन्वसि रयिम्

इति रु इति रेवतीनां रूपम् ।

पिशङ्गं बहुलं पुरुरपृहं पवमानाभ्यर्षसि

पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने ।

इति वृषण्वतीर्भवन्ति बृहतो रूपम् ।

बार्हतमेतदहः ।

देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसी

त्य्गोमतीः पशुमतीर्भवन्ति । पशूनामेवावरुद्ध्यै ।

पशवो ह्येतदहः ।

तासु सौषावमभ्यासवत् सिमानां रूपम् ।

अभ्यासो वै सिमानां रेवतयः ।

तद्वेवाचक्षते वसिष्ठस्य पिप्पलीति ।

वसिष्ठो वै जीतो हतपुत्राऽकामयत बहुः प्रजया पशुभिः प्रजायेयेति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै स बहुः प्रजया पशुभिः प्रायायत ।

सोऽब्रवीत्पिप्पलि वा इदमास येन प्राजनिषीति ।

तत्पिप्पलीनां पिप्पलित्वम् ।

पिप्पलिनं ह वै नामैतत्पिप्पलीत्याख्यायते तत् ।

प्रजा अवि पिप्पलं । पशवः पप्पलं । स्वर्गो लोकः पप्पलम् ।

तद्यत्पिप्पलि भवत्येतस्यैव सर्वस्यावरुद्ध्या एतस्य् । ओपाप्त्यै ।

यदूर्ध्वेळं भवति बृहतो रूपं । बार्हतेऽहन् ।

तेन वै रूपसमृद्धम् ।

यदु वसिष्ठोऽपश्यत्तस्माद् वसिष्ठस्य पिप्पलीत्याख्यायते १४९