१४८

अथेषोवृधीयं बहिर्निधनं बार्हतम् ।

तस्माद्बार्हतेऽहन्क्रियते ।

इषो वै षष्ठमहर् । वृधे सप्तमम् ।

षष्ठाद्वा अह्नस्सप्तममहः प्रजातम् ।

तद्यदिष इति षष्ठादेवैतदह्नस्सप्तममहः प्रजनयन्ति ।

यद्वृध इत्यवर्धन्त इव ह्येतर्हि ।

प्रजापतिः प्रजा असृजत ।

ता अनशना-अनशना असृजत ।

ता अशनायन्तीरन्यान्यामादन् ।

स प्रजापतिरैक्षत कथं नु म इमाः प्रजा नाशनायेयुरिति ।

स एतत्सामापश्यत् ।

तेनैना इषोवृधीय इत्येवाभ्यमृशत् ।

ता अस्येषा समक्ता अवर्धन्त ।

तदेवेषोवृधीयस्येषोवृधीयत्वम् ।

इषा हैवास्य समक्ता भार्या वर्धन्ते य एवं वेद ।

तच्चतुरक्षरणिधनं भवति चतुष्पदा वै पशवः ।

पशव एतदहः पशूनामेवावरुद्धयि १४८