अथ वाजदावर्यः ।
अन्नं वै वाजोऽन्नं दावर्यः ।
एता अन्नाद्यस्यैवावरुद्ध्यै ।
प्रजापतिः प्रजा असृजत ।
ता अनशना असृजत ।
ताः प्रजापतिमेवोपाधावंस्ताभ्य एतेनैव साम्नान्नाद्यं प्रायच्छत् ।
ता अब्रुवन्वाजं वै नोऽन्नाद्यं प्रादादिति ।
तदेव वाजदावरीणां वाजदावरीत्वम् ।
तदेतदन्नाद्यस्यावरुद्धिस्साम ।
अवान्नाद्यं रुन्द्धेऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद ।
अथ सौपर्णं यज्ञस्यैवारम्भः ।
यज्ञो वै देवेभ्य उदक्रामत् ।
स सुपर्णो भूतः पर्यप्लवत ।
ते देवा अकामयन्ता यज्ञं रभेमहीति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तेन यज्ञमारभन्त ।
उत्क्रान्त इवैतर्हि यज्ञो भवति षष्ठेऽहन् ।
तद्यदत्र सौपर्णं भवति यज्ञस्यैवारम्भाय ।
यद्वेवैनमेतेन सुपर्णं भूतं परिप्लवमानमारभन्ते । तस्मात्सौपर्णमित्याख्यायते ।
तद्वेवाचक्षते क्रौञ्चमिति ।
क्रुङ्ङाङ्रिरस ईष्यमिवाहरविन्दत् ।
ईष्यमिवैतदहर्यत्षष्ठम् ।
तस्मात्षष्ठेऽहन्क्रियते ।
तदैळं भवति पशवो वा इळा ।
पशव एतदहः पशूनामेवावरुद्ध्यै १४७