वत्सैः पशून्संवाशयन्ति ।
यदा वै पशवो वत्सैस्संवाशन्तेऽथ कामान्दुह्रे ।
कामदुघा अस्मै रेवतयो भवन्ति ।
पवमाने संवाशयेद्यः कामयेतामुष्मिन्मे लोके कामादुघा स्युरिति ।
अमुष्मिन्हैवास्य लोके कामदुघा भवन्ति ।
अभ्यावर्तिषु संवाशयेद्यः कामयेतास्मिन्मे लोके कामदुघा स्युरिति ।
अस्मिन्हैवास्य लोके कामदुघा भवन्ति ।
उभयत्र संवाशयेद्यः कामयेतोभयोर्मे लोकयोः कामदुघा स्युरिति ।
उभयोर्हैवास्य लोकयोः कामदुघा भवन्ति ।
तदाहुरितो वत्सा स्युर् । इतो मातरः ।
उदीचीर्वा आप स्यन्दन्ते ।
आपो वा एते यत्पशव इति ।
तदु वा आहुरित एव वत्सा स्युर् । इतो मातरः ।
यदा वै पिता पुत्रं निरवसाययत्य् । उत्तरतो वाव स तं निरवसाययति ।
तस्मादुत्तरतो वत्सा स्युर् । दक्षिणतो मातरः ।
देवासुराः पशुष्वस्पर्धन्त ।
ते देवा वत्सैरुत्तरतोऽतिष्ठन्न् । अथासुरा मातृभिर्दक्षिणतः ।
ता मातरो निर्दीर्य वत्सानभिपलायन्त ।
अधारयन्देवा वत्सान् ।
तास्समाक्रम्यासुराणामवृञ्नत ।
ताभिरुदञ्चः प्राद्र वन् ।
वृङ्क्ते द्विषतो भ्रातृव्यस्य पशून्य एवं वेद ।
तस्मादुत्तरत एव वत्सा स्युर् । दक्षिणतो मातर इति १४६