पयो वै रेवतयः ।
पशवः पञ्चममहः ।
ता यदन्तरिहिता अन्येन साम्ना स्युरन्तर्हितं पयः पशुभ्य स्यात् ।
ता यदनन्तर्हिता भवन्ति तेन पयः पशुभ्योऽनन्तर्हितं भवति ।
तदाहुर्जामीव वा एतत्क्रियते यदेता इळाभिरिळा उपयन्ति ।
इषोवृधीयेनैवारभ्यमजामिताया इति ।
अन्तर्हितं ह तु तथा पयः पशुभ्य स्यात् ।
वज्रेण रेतो वीयू रेवतीभिरेवारभ्यं । वज्रेण नेद्रे तो व्ययामेति ।
अथो ह न तथा पयः पशुभ्योऽन्तर्हितं भवति ।
ऋग्वा अयं लोकस्सामासौ ।
देवक्षेत्रं वा असौ लोकः पवमानः ।
ता यद्द्वेधा व्यूहन्ति तेनैवाभ्यामुभाभ्यां लोकाभ्यां न यन्ति ।
आपो वै रेवतयः ।
आप उ रैवतं साम ।
तद्यद्रे वतीषु रैवतं पृष्ठं कुर्युरगाधे मज्जेयुर्न प्रतितिष्ठेयुः ।
तद्यद्वारवन्तीयं पृष्ठं भवति प्रतिष्ठित्या एव ।
जीर्यन्तीव वा एतत्पृष्ठानि यदा षष्ठमहरागच्छन्ति ।
न वै जीर्णे रेतः परिशिष्यते ।
तद्यद्वारवन्तीयं पृष्ठं भवत्युत्तरेषामेव यज्ञक्रतूनां प्रजात्यै १४५