१४४

पञ्चमाद्वै देवा अह्नष्षष्ठमहर्निरमिमत ।

तस्मा आयतनमैच्छन् ।

तस्मै रेवतीरेवायतनमविन्दन् ।

आयतनवान्भवति य एवं वेद ।

पशवो वै रेवतयः ।

आत्मा मध्यन्दिनः ।

तद्यद्रे वतीर्मध्यन्दिनमभि प्रत्याहरन्त्यात्मन्नेवैतत्पशून्प्रतिष्ठापयन्ति ।

पशवो वै रेवतयः ।

आत्मा मध्यन्दिनः ।

तद्यद्रे वतीर्मध्यन्दिनमभि प्रत्याहरन्त्यात्मन्नेवैतत्पयः प्रतिष्ठापयन्ति ।

रेतो वै रेवतयः ।

आत्मा मध्यन्दिनः ।

तद्यद्रे वतीर्मध्यन्दिनमभि प्रत्याहरन्त्यात्मन्न् एवैतद्रे तः प्रतिष्ठापयन्ति ।

रेतो वै रेवतयः ।

रेत उ रैवतं साम ।

वज्रा ह खलु वा एते यद्रै वतस्य साम्नो निधनानि ।

तद्यद्रे वतीषु रैवतं पृष्ठं कुर्युर्वज्रेण रेतो वीयुस्ता यत्पुरस्तात्पवमाने कुर्वन्ति । वज्रेण नेद्रे तो व्ययामेति १४४