इन्द्रा येन्दो मरुत्वत
इति माध्यन्दिनस्य पवमानस्य गायत्र्यो भवन्ति बृहतो रूपम् ।
बार्हतमेतदहः ।
तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिम्
इति परिवतीर्भवन्त्यन्तस्य रूपम् ।
अन्तो ह्येतदहः ।
रसं ते मित्रो अर्यमे
ति रसो ह्येतदहः ।
यो वै पञ्चमादह्नो रसोऽत्यनेदत्तदेतदहरभवत् ।
स एष रस एव ।
पिबन्तु वरुणः कवे ।
पवमानस्य मरुतः
इति मरुत्वतीर्भवन्ति ।
मरुत्वद्वै मध्यन्दिनस्य रूपम् ।
मध्यन्दिनस्यैव तद्रू पान्न यन्ति ।
तासु गायत्रमुक्तब्राह्मणम् ।
अथ रेवतयः ।
पशवो वै सिमाः ।
पशवो रेवतयः ।
पशव एतदहः ।
पशुमन्त एव भवन्त्येनेन तुष्टुवानाः ।
शक्वर्यो वा इदं तेजसा प्रातपन् ।
तेजसा नाभिमृश्या आसन् ।
तासां देवाः प्रदाहादबिभयुः ।
तेऽब्रुवन्सर्वं वा इदमिमाः प्रधक्ष्यन्ति ।
एतेदमासां शमयामेति ।
तासां द्वे एकस्यै पदे निरमिमतैकमेकस्यै ।
यस्यै द्वे निरमिमत तदेतां द्विपदां प्रत्युपादधुर् । यस्या एकं तदेकपदाम् ।
सैवैषा त्रिपदा गायत्र्यभवत् ।
समानं वा एतच्छन्दः ।
तद्द्वेधा व्यौहन्भूम्ने च शान्त्यै च ।
बहुः प्रजया पशुभिर्जायते य एवं वेद १४३