यज्ञस्य हि स्थ ऋत्विजा
इत्यैन्द्रा ग्नं भवति ।
अत्रेन्द्रा ग्नी आर्त्विज्याय वृणीतेऽत्रेन्द्रा ग्निभ्यां यज्ञं सम्प्रदाय निर्मुच्यते ।
तस्य न मीयते यथा पुरमेव भवतीन्द्रा ग्नी एवातः प्रआचीनमार्त्विज्यं कुरुतः ।
इदं वां मदिरं मध्वधुक्षन्नद्रि भिर्नरः ।
इन्द्रा ग्नी तस्य बोधतमिति शक्वरीणां च रेवतीनां च रूपम् ।
तोशासा रथयावाना वृत्रहणापराजिता ।
इन्द्रा ग्नी तस्य बोधतमिति वार्त्रघ्नम्भवत्यन्ततो विजित्यै ।
एतेन वै षडहेन देवा अग्रे व्यजयन्त ।
तद्यदेतद्वार्त्रघ्नमन्तत आज्यं क्रियते । विजित्या एव भ्रातृव्यस्यैव वधाय ।
विजयते हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।
उपरिष्टादुदर्कं दधति ।
रसो वै षष्ठमहस् । तस्यानतिनेदाय ।
स यथापां वार्त्रं दिह्यात्तादृगेवैतदुपरिष्टादुदर्कं दधति रसस्या नतिनेदाय ।
त्रयस्त्रिंश स्तोमो भवति ।
त्रयस्त्रिंशद्वै सर्वा देवताः ।
सर्वास्वेवैतद्देवतासु प्रतितिष्ठन्तो यन्ति १४२