प्रति वां सूर उदित
इति मैत्रावरुणं भवति ।
प्रति ह्येतर्हि स्तोमाश्छन्दो ह्यृतवो ग्रहा आवर्तन्ते ।
अथो यत्
प्रति वाम्
इति भवति तस्मादु हेदं यथर्त्वन्नाद्यं प्रतिधीयत उपरिष्टादुदर्काण्यन्यानि स्तोत्राणि भवन्ति ।
अथैतदनुपरिष्टादुदर्कम् ।
प्राणापानौ वै मैत्रावरुणौ ।
यदुपरिष्टादुदर्कं दध्युः प्राणापानावपिहन्युः ।
तद्यदनुपरिष्टादुदर्कं दधति प्राणापानाभ्यामेवोत्सृष्ट्यै ।
भिन्धि विश्वा अप द्विष
इत्यैन्द्रं भवति ।
परि बाधो जही मृध
इति घ्नद्वत् ।
एतद्वै यजमानस्य स्वं स्तोत्रं यद्ब्रह्मणः ।
स्व एव तदायतने यजमानस्य सर्वं पाप्मानं घ्नन्ति ।
वसु स्पार्हं तदा भर यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति ।
वसु स्पार्हं तदा भर
यद्वीळाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् ।
वसु स्पार्हं तदा भर
इति ।
पशवो वै वसु स्पार्हम् ।
अन्नमु वै पशवः ।
एतांस्तदुद्गाता यजमानायाशिषमाशास्त । उपरिष्टादुदर्कं दधति ।
रसो वै षष्ठमहस्तस्यानतिनेदाय १४१