तदाहुर्मिथुनानि पञ्चाहान्य् । अमिथुनं षष्ठमहः ।
तद्यद्
इमं स्तोममर्हते जातवेदस
इत्याग्नेयमाज्यं भवति । तेनैव मिथुनं षष्ठमहः क्रियते ।
रथमिव सं महेमा मनीषये
त्येतेन मिथुनं क्रियते ।
होता वै पूर्वेष्वहस्सु यजमानायाशिषमाशास्त उद्गातैतस्मिन् ।
यो वै साम्नाशिषमाशास्ते मीयत इव वै तस्य ।
तद्यद्
अग्ने सख्ये मा रिषामा वयः तव । अग्ने सख्ये मा रिषामा वयं तवे
ति भवति । भेषजमेवैतेन प्रायश्चित्तिं कुर्वते ।
तथा हास्य न मीयते ।
उपरिष्टादुदर्कं दधति ।
रसो वै षष्ठमहस्तस्यानतिनेदाय ।
स यथापां वार्त्रं दिह्यात्तादृगेवैतदुपरिष्टादुदर्कं दधति रसस्यानतिनेदाय १४०