१३९

अथ ह वै तरन्तपुरुमीढौ वैतदश्वी ध्वस्रयोः पुरुषन्त्योर्बहु प्रतिगृह्य गरगिराविव मेनाते ।

तौ ह स्माङ्गुल्या सातं प्रतिममृशाते ।

तावकामयेतामसातं नाविदं सातं स्यादात्तमिवैव न प्रतिगृहीतमिति ।

तावेतच्चतुरृचमपश्यतां । तेन प्रत्यैताम् ।

ततो वै तयोरसातं सातमभवदात्तमिवैव न प्रतिगृहीतम् ।

स यः प्रतिगृह्य कामयेतासातम्म इदं सातं स्यादात्तमिवैव न प्रतिगृहीतमिति स हैतेन चतुरृचेन प्रतीयात् ।

असातं हैवास्य सातं भवत्यात्तमेवैव न प्रतिगृहीतम् ।

एते सोमा असृक्षते

त्येता अन्त्या भवन्ति भूतानुवादिनीरु एव ।

षडहमेवैतदेतास्सृष्टमनुवदन्ति ।

अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि ।

सनद्वाजः परि स्रव

इति परिवतीर्भवन्त्यन्तस्य रूपम् ।

अन्तो ह्येतदहः ।

उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः ।

गृणानो जमदग्निना

इति पर्यासो भवति प्रजानां धृत्यै पशूनामुपस्थित्यै ।

त्रयस्त्रिंश स्तोमो भवति ।

त्रयस्त्रिंशद्वै सर्वा देवताः ।

सर्वास्वेवैतद्देवतासु प्रतितिष्ठन्तो यन्ति १३९