१३८

सना च सोम जेषि चे

त्युत्तरं दशर्चं भवति ।

अभिपूर्वमेवैतेन विराजमन्नाद्यमवरुन्धते ।

ऋषयो वा एतदृद्धिकामा उपोत्थानं प्रियं वाचोऽपश्यन्न्

अथा नो वस्यसस्कृढ्य् । अथा नो वस्यसस्कृधी

ति ।

तेनास्तुवत ।

ततो वै ते सर्व एवार्ध्नुवन् ।

सर्वे हैवर्ध्नुवन्ति य एवं विद्वांस एतेन दशर्चेन स्तुवते ।

उपरिष्टादुदर्कं दधति ।

रसो वै षष्ठमहः ।

तस्यानतिनेदाय ।

स यथापां वार्त्रं दिह्यात्तादृगेवैतदुपरिष्टादुदर्कं दधति रसस्यानतिनेदाय ।

चतुरृचो भवति चतुष्पदां पशूनामेवावरुद्ध्यै ।

परोक्षं द्विपदा भवन्ति । द्विपदां पशूनामवरुद्ध्यै ।

वि नाराशंसमिव भवत्युभयोः कामयोरुपाप्त्यै ।

यच्च दिव्यो यच्च मानुष उपरिष्टादुदर्कं दधति ।

रसो वै षष्ठमहः ।

तस्यानतिनेदाय १३८