पवस्व देववीरती
ति दशर्चस्य प्रभृतिर्भवत्यति प्रादेति वा आहुरुपस्थितम् ।
उपस्थितमिवैतदहः ।
पवित्रं सोम रंह्या ।
इन्द्र मिन्दो वृषा विश
इति वृषण्वतीर्भवन्ति बृहतो रूपम् ।
बार्हतमेतदहः ।
आ वच्यस्व महि प्सर
इति आवतीर्भवन्त्यनतिपादायैव ।
अन्तमिव ह्येतर्हि गच्छन्ति ।
षडहान्नेत्पराञ्चोऽतिपद्यामहा इति ।
अधुक्षत प्रियं मध्विति यद्वै महानाम्नीनां दुग्धं पयस्ता रेवतयोऽभवन् ।
महानाम्नीनां वा एतद्दुग्धं पयो यद्रे वतयः ।
महान्तं त्वा महीरन्विति त्रयस्त्रिंशो वै स्तोमो महान् ।
तमेवैतद्रे वतयः ।
आपो अर्षन्ति सिन्धवः ।
यद्गोभिर्वासयिष्यसे
समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः ।
सोमः पवित्रे अस्मयुः
इत्यप्सुमतीर्भवन्ति ।
आपो ह्येतदहः ।
अचिक्रदद्वृषा हरिर्
इति वृषण्वतीर्भवन्ति बृहतो रूपम् ।
बार्हतं ह्येतदहः ।
महान्मित्रो न दर्शत
इति महद्ध्येतदहर्यत्त्रयस्त्रिंशम् ।
गिरस्त इन्द्र ओजसा मर्मृज्यन्ते अपस्युवः ।
याभिर्मदाय शुम्भसे
तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे ।
तव प्रशस्तये महे
गोषा इन्दो नृषा अस्यश्वसा वाजसा उत ।
आत्मा यज्ञस्य पूर्व्यः
इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।
पशवो ह्येतदहः ।
अस्मभ्यमिन्दविन्द्रि यं मधोः पवस्व धारया ।
पर्जन्यो वृष्टिमं इव
इति दशर्चं भवति दशाक्षरा विराड् । अन्नं विराड् विराज एवान्नाद्यस्यावरुद्ध्यै १३७