ता एता भवन्ति जगत्यो जगद्वर्णा अह्नो रूपेण समृद्धाः ।
यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्ध्यते ।
समस्मा ऋध्यते य एवं वेद ।
असृक्षत प्र वाजिन
इत्यनुरूपो भवति भूतानुवादिनीः ।
षडहमेवैतदेतास्सृष्टमनुवदन्ति ।
तदाहुरह्न एव रूपं स्तोत्रियेणारभन्तेऽनुरूपेण साम्न इति ।
स्तोत्रियानुरूपौ भवतः ।
प्राणो वै स्तोत्रियोऽपानोऽनुरूपः ।
प्राणापानाभ्यामेवैतत्समृध्य प्रयन्ति ।
गव्या सोमासो अश्वया ।
शुक्रासो वीरयाशवः
इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।
पशवो ह्येतदहः ।
शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः ।
पवन्ते वारे अव्यये
इति रूति रेवतीनां रूपम् ।
ते विश्वा दाशुषे वस्विति विश्ववतीर्भवन्ति ।
वैश्वदेवं ह्येतदहः ।
सोमा दिव्यानि पार्थिवा ।
पवन्तामान्तरिक्ष्या
इतीमाल्ँ लोकान्समारभते ।
इमे वै लोकाः प्रजापतिः ।
प्राजापत्यमेतदहः ।
षष्ठायतनो वै प्रजापतिर्देवतानाम् १३६