१३५

ज्योतिर्यज्ञस्य पवते मधु प्रियम्

इति सिमानां रूपम् ।

समानं वै सिमानां च रेवतीनां च रूपम् ।

सिमाभ्यो वा अधि रेवतयो निर्मिताः ।

ज्योतिरित्याह ।

ज्योतिरेवैतत्प्रजासु दधाति ।

ज्योतिरिति च ह खलु वै पवत इति च गायत्र्यै रूपम् ।

गायत्र्यो एतदहस्तायते ।

पिता देवानां जनिता विभूवसुर्

इति प्रजापतिर्वै पिता देवानां । स जनिता । स विभूवसुः ।

प्राजापत्यमेतदहः ।

दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रि यो रस

इति ।

रसो ह्येतदहः ।

यो वै पञ्चमादह्नो रसोऽत्यनेदत्तदेतदहरभवत् ।

स एष रस एव ।

अभिक्रन्दन्कलशं वाज्यर्षती

त्यृषभं एवैतत्प्रातस्सवने रेवतीष्वपिसृजन्ति प्रजननाय ।

पतिर्दिवश्शतधारो विचक्षण

इति यद्वै शतवत्सहस्रवत्तज्जगत्यै रूपम् ।

जागतमेतदहः ।

हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिस्सिन्धुभिर्वृषे

ति वृषण्वतीर्भवन्ति बृहतो रूपम् ।

बार्हतमेतदहः ।

अग्रे सिन्धूनां पवमानो अर्षस्यग्रे वाचो अग्रियो गोषु गच्छसि ।

अग्रे वाजस्य भजसे महद्धनं स्वायुधस्सोतृभिस्सोम सूयसे

इत्यग्रमग्रमिति भवति ।

अग्रं ह्येतदहर्यद्बार्हतम् ।

अग्रं त्रयस्त्रिंश स्तोमानाम् ।

तमेवैतद्रे वतयोऽनु १३५