१३४

तासु महावैश्वामित्रम् ।

एतेन वै विश्वामित्रो महिमानं भूमानमभिपूर्वं पशूनामवारुन्द्ध ।

तदेतत्पशव्यं साम ।

महिमानमेव भूमानमभिपूर्वं पशूनामवरुन्द्धे य एवं वेद ।

इन्द्रो वै वृत्रमजिघांसत् ।

स विश्वामित्रमुपाधावदृष उप त्वा धावाम । इह नोऽधिब्रूहीति ।

स एतद्विश्वामित्रस्सामापश्यत् ।

तेनास्तुत ।

ततो वा इन्द्रो वृत्रमहन् ।

सोऽब्रवीन्महद्वा इदं विश्वामित्रस्याभूदिति ।

तदेव महावैश्वामित्रस्य महावैश्वामित्रत्वम् ।

तदु भ्रातृव्यहा ।

हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।

तत्त्रीळं भवति पशवो वा इळा ।

पशव एतदहरभिपूर्वाणामेव पशूनामवरुद्ध्यै ।

भेषजं ह खलु वै तिस्र इळाः ।

एतद्ध वै शिवं शान्तं वाचो यत्तिस्र इळाः ।

तद्यत्त्रीळं पञ्चमेऽहनि भवति तेनैव त्रिणवं च स्तोमं शमयन्ति ।

सिमाश्चादित्यादृतव उदक्रामन् ।

सोऽकामयत न मदृतव उत्क्रामेयुरभि मा वर्तेरन्निति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

हेहया ओ हा ओ हा इति हया ह वा अस्यैते यथाश्वा स्युरेवम् ।

ततो वै तस्मादृतवो नोदक्रामन् ।

तत एनमुपावर्तन्त ।

तं प्राविशन् ।

तानभ्यारोहत् ।

स एष ऋतुषु च संवत्सरे चैतस्यां श्रियामध्यूढस्तपति ।

यदु विश्वामित्रोऽपश्यत्तस्मान्महावैश्वामित्रमित्याख्यायते ।

तदैळमच्छावाकसाम भवति ।

पशवो वा इळा ।

पशुष्वेवैतत्प्रतितिष्ठन्ति १३४