१३३

त्रयो ब्रह्मापश्यन् । नोधास्तृतीयं । सुमित्रस्तृतीयं । बृहदुक्थस्तृतीयम् ।

तद्यत्प्रथमे त्रियहे नौधसं क्रियते । तेन प्रथमस्त्रियहो ब्रह्मण्वान्क्रियते ।

अथ यत्तृतीये त्रियहे बार्हदुक्थं क्रियते तेनैव तृतीयस्त्रियहो ब्रह्मण्वान्क्रियते ।

एतैर्ह वै सामभिरेते त्रियहा ब्रह्मण्वन्तः क्रियन्ते ।

तत्पञ्चाक्षरणिधनं भवति पञ्चमस्याह्नो रूपं पञ्चरात्रस्य सन्तत्या अव्यवच्छेदाय ।

असावि सोम इन्द्र त

इत्यसावीति सिमानां रूपम् १३३