तासु सञ्जयम् ।
देवासुरा वा एषु लोकेष्वस्पर्धन्त ।
अस्मिन्भुवने ते देवा अकामयन्त समिमाल्ँ लोकाञ्जयेम जयेमासुरान्स्पर्धां भ्रातृव्यानिति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तेनेमाल्ँ लोकान्समजयन्न् । अजयन्स्पर्धां भ्रातृव्यानसुरान् ।
तद्यदिमाल्ँ लोकान्समजयंस्तत्सञ्जयस्य सञ्जयत्वम् ।
समिमाल्ँ लोकाञ्जयति । जयति स्पर्धां द्विषन्तं भ्रातृव्यं । य एवं वेद ।
तदु पाङ्क्तं । पाङ्क्तेऽहन्क्रियते पाङ्क्ता वै पशवः ।
पशव एतदहः पशूनामेवावरुद्ध्यै ।
तद्वेवाचक्षते द्विहिङ्कारं वामदेव्यमिति ।
पशवो वै सिमाः । पशवो रेवतयः । पशवो द्विहिङ्कारं वामदेव्यम् ।
पशुमन्त एव भवन्त्येनेन तुष्टुवानाः ।
अथो यदेवैतस्मिन्नहन्नूर्ध्वं शक्वरीभ्यः क्रूरमिव क्रियते तदेवैताभ्यां हिङ्काराभ्यां शमयन्ति ।
अथ सौमित्रं भ्रातृव्यहा सेन्द्रं साम ।
हन्ति द्विषन्तं भ्रातृव्यमास्येन्द्रो हवं गच्छति य एवं वेद १३२