अथ पार्थं द्वियभ्यासं द्वितीयस्याह्नो रूपम् ।
द्वितीयं ह्येतदहरायतनेन ।
अथ ऋषभश्शाक्वरः ।
पशवो वै सिमाः । पशवो रेवतयः । पशव ऋषभः ।
ऋषभमेवैतत्पशुष्वपिसृजन्ति मिथुनत्वाय प्रजननाय ।
प्र मिथुनेन जायते य एवं वेद ।
स उ द्वाभ्यां द्वाभ्यां देवताभ्यां प्रतितिष्ठति ।
तस्मादृषभ स्कन्दन्द्विपाद्भवति ।
ता एताश्चतुरक्षरा देवता भवन्ति ।
तस्माद्द्विपात्स्कन्दति ।
चतुष्पदः प्रजनयति ।
प्र प्रजया पशुभिर्जायते य एवं वेद ।
स उ पाङ्क्तः ।
पाङ्क्तेऽहनि क्रियते रूपसमृद्धतायै ।
इन्दुर्वाजी पवते गोन्योघा
इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।
पशवो ह्येतदहः ।
तासु दाशस्पत्यमुक्तब्राह्मणम् ।
अथ यज्ञायज्ञीयमुक्तब्राह्मणम् ।
आ ते अग्न एधीमही
त्यावतीर्भवन्ति ।
अपच्छिद्येव वा एतद्यज्ञकाण्डं यदुक्थानि ।
तद्यदावतीर्भवन्ति यज्ञस्यैव सलोमतायै १३१