ऋषीणां वा अग्रे मन्त्रश्चैव प्रजा चासीन्न पशवः ।
तेऽकामयन्ताव पशून्रुन्धीमहीति ।
ते संवत्सरे पशून्पर्यपश्यन् ।
तानेतेनाष्टेळेन पदस्तोभेनोदसृजन्त ।
तेऽब्रुवन्नस्ति न्वा इति ।
तान्षडिळेनोदसृजन्त ।
तेऽब्रुवन्नस्ति न्वा इति ।
तांश्चतुरिळेनोदसृजन्त ।
तेऽब्रुवन्नस्ति न्वावेति ।
तान्द्वीलेनोदसृजन्त ।
ते वा एते पशव एव यत्पदस्तोभाः ।
पशव एतदहः ।
पशुमान्भवति य एवं वेद ।
त उ सर्वे जागता भवन्ति ।
पशवो वै जगती ।
तेनो हैवास्मिंस्तदप्येकशफाः पशवस्तिष्ठन्ते यत्सर्वे जागता भवन्ति ।
सर्वे हि जागताः पशवः १३०