पवस्व वाजसातय
इति वाजवतीरनुष्टुभो भवन्त्यन्नं वै वाजोऽन्नाद्यस्यैवावरुद्ध्यै ।
पवित्रे धारया सुतः ।
इन्द्रा य सोम विष्णवे देवेभ्यो मधुमत्तमः
इति वैष्णव्यो भवन्ति यज्ञो वै विष्णुर्यज्ञस्यैवारम्भाय ।
तासु गौरिवीतमुक्तब्राह्मणम् ।
अथाष्टेळः पदस्तोभ इळानामयातयामावरुध्यते ।
तेनो हास्मा एकशफाः पशवस्तिष्ठन्ते ।
प्रजापतिं प्रजास्समृजानं शीर्षतः पाप्मागृह्णात् ।
सोऽकामयताप पाप्मानं हनीयेति ।
स एतान्पदस्तोभानपश्यत् ।
तैरस्तुत ।
तैः पाप्मानमपाहत ।
तानपवेष्टयन्निव गायेत् ।
अपवेष्टयन्निव वै स तच्छीर्षतोऽग्रे पाप्मानमपजघ्ने ।
अपवेष्टयन्निवैव शीर्षतोऽग्रे पाप्मानमपहते य एवं वेद १२९