अथ ह च्यवनो भार्गवः पुनर्युवा भूत्वागच्छच्छर्यातं मानवम् ।
तं प्राच्यां स्थल्यामयाजयत् ।
तदस्मै सहस्रमददात् ।
तेनायजत ।
एतद्वै तच्च्यवनो भार्गव एतेन साम्ना स्तुत्वा पुनर्युवाभवत् । कुमारीं जायामविन्दत । सहस्रेणायजत ।
एते वा एतस्मिन्सामन्कामा । एतानेव कामानवरुन्द्धे ।
यत्काम एवैतेन साम्ना स्तुते । समस्मै स काम ऋध्यते ।
अथो ह स्मैतेनैव साम्ना च्यवनो भार्गवो यद्यदशनं चकमे तत्तद्ध स्म सरस्वत्यै शैशवादुदचति ।
तद्वन्नाद्यस्यावरुद्धिस्साम ।
अवान्नाद्यं रुन्द्धेऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद ।
यदु च्यवनो भार्गवोऽपश्यत्तस्माच्च्यावनमित्याख्यायते ।
प्राणा शिशुर्महीनाम्
इति पशुरूपमेवैतदुपागच्छन्ति ।
पशूनां वै शिशुर्भवति ।
तासु क्रोशं । भ्रातृव्यहा सेन्द्रं साम ।
हन्ति द्विषन्तं भ्रातृव्यमास्येन्द्रो हवं गच्छति य एवं वेद ।
तदैळं भवति पशवो वा इळा ।
पशव एतदहः पशुनामेवावरुद्धयि १२८