१२७

तदिन्द्रो ऽन्वबुध्यत प्र हाभ्यामवोचदिति ।

तस्याद्रुत्य शिरः प्राच्छिनदिदमश्वशीर्षम् ।

अथ यदस्य स्वं शिर आसीत्तदिमौ मनीषिणौ प्रतिसमधत्ताम् ।

तौ ह देवानाजग्मतुरपशीर्ष्णा यज्ञेन यजमानान् ।

तान्होचतुरपशीर्ष्णा वै यज्ञेन यजमाना आध्वे ।

ते तं कामं नाप्नुथ यो यज्ञे काम इति ।

कस्तद्यज्ञस्य शिरो वेदेति ।

आवमिति ।

तद्वै प्रतिसन्धत्तमिति ।

ताभ्यां वै नौ ग्रहं गृह्णीतेति ।

ताभ्यामेतमाश्विनं ग्रहमगृह्णन् ।

तावब्रुवन्युवमेवाध्वर्यू स्थस् । तौ तत्प्रजानन्तावेतद्यज्ञस्य शिरः प्रतिसन्धास्यथ इति ।

तथेति ।

तावध्वर्यू आस्ताम् ।

तत्तावपिसोमावभवताम् १२७