स होवाच देवा वा एते कुरुक्षेत्रेऽपशीऋष्णा यज्ञेन यजमाना आसते ।
ते तं कामं नाप्नुवन्ति यो यज्ञे कामः ।
तद्यज्ञस्य शिरोऽछिद्यत ।
तद्यद्दध्यङाथर्वणोऽन्वपश्यत्तं तद्गच्छतम् ।
स वां तदनुवक्ष्यति ।
ततोऽपिसोमौ भविष्यथ इति ।
तद्यत्तद्यज्ञस्य शिरोऽछिद्यतेति । सोऽसावादित्यः ।
स उ एव प्रवर्ग्यः ।
तौ ह दध्यञ्चमाथर्वणमाजग्मतुः ।
तं होचतुर् । ऋषे उप त्वायावेति ।
कस्मै कामायेति ।
एतद्यज्ञस्य शिरोऽनुवक्ष्यावहा इति ।
नेति होवाच ।
इन्द्रो वै तदप्यपश्यत् ।
स माब्रवीद्यदि वा इदमन्यस्मै ब्रूयाश्शिरस्ते छिन्द्यामिति ।
तस्माद्बिभेमीति ।
स वै नावनेनाश्वस्य शीर्ष्णानुब्रूहीति ।
तथेति होवाच ।
स वै नु वां संवदमानौ पश्यानीति ।
तौ हेमौ स्वं शिरो निधायेदमश्वस्य शिरः प्रतिसन्धाय तेन ह स्म संवदमानावासाते साम गायमानावृचं यजुरभिव्याहरन्तौ ।
ताभ्यां ह श्रद्धाय तेनाश्वस्य शीर्ष्णानुवाच १२६