१२५

तं होचतुरृषेऽपिसोमौ नौ भगवः कुर्विति ।

तथेति होवाच ।

तौ वै नु मा युवं पुनर्युवानं कुरुतमिति ।

तं ह सरस्वत्यै शैशवमभ्यवचकृषतुः ।

स होवाच कुमारि । सर्वे वै सदृशा उदेष्यामोऽनेन मा लक्ष्मकेण जानीतादिति ।

ते ह सर्व एव सदृशा उदेयुर्यत्कल्याणतमं रूपाणां तेन रूपेण ।

तं हेयं ज्ञात्वावबिभेदे -अयं मम पतिरिति ।

तं होचतुर् । ऋषेऽकुर्वावं तव तं कामं यस्तव कामोऽभूत् ।

पुनर्युवाभूः ।

आवं त्वं तथानुशाधि । यदावमपिसोमौ स्यावेति १२५