१२४

तद्धास्य प्रियमास ।

स सहोचाश्विनौ वै तौ दर्विहोमिणौ भिषज्यन्ताविदं चरतोऽनपिसोमौ ।

तौ त्वैतदेवागत्य श्वो वक्तारौ ।

तौ त्वं ब्रूताद्युवं वा असर्वौ स्थो । यौ देवौ सन्तावसोमपौ स्थः ।

सर्वो वै मम पतिर्यस्सोमप इति ।

तौ वै त्वा वक्तारौ कस्तस्येशे यदावमपिसोमौ स्यावेति ।

अयं मम पतिरिति ब्रूतात् ।

तेनो एव मे पुनर्युवताया आशति ।

तौ हैनां श्वो भूत एत्यैतदेवोचतुः ।

सा होवाच युवं वा असर्वौ स्थो । यौ देवौ सन्तावसोमपौ स्थः ।

सर्वो वै मम पतिर्यस्सोमप इति ।

तौ होचतुः कस्तस्येशे यदावमपिसोमौ स्यावेति ।

अयं मम पतिरिति होवाच १२४