१२३

कृष्णसर्प उ हैवैनां प्रत्युत्तस्थौ ।

सा ह तदेव निर्विद्योपविवेश ।

अथ हाश्विनौ दर्विहोमिणौ भिषज्यन्ताविदं चेरतुरनपिसोमौ ।

तौ हैनामेत्योचतुः कुमारि । स्थविरो वा अयमसर्वो नालं पतित्वनायावयोर्जायैधीति ।

नेति होवाच ।

यस्मा एव मा पितादात् । तस्य जाया भविष्यामीति ।

तद्धायमाजुघोष ।

अथ हेमौ प्रेयतुः ।

स होवाच कुमारि । को न्वेष घोषोऽभूदिति ।

पुरुषौ मेमावुपागातां यत्कल्याणतमं रूपाणां तेन रूपेणेति ।

तौ त्वा किमवोचतामिति ।

कुमारि । स्थविरो वा अयमसर्वो नालं पतित्वनायावयोर्जायैधीति ।

सा त्वं किमवोच इति ।

नेत्यहमवोचं । यस्मा एव मा पितादात्तस्य जाया भविष्यामीति १२३