१२२

स होवाच च्यवनो वै स भार्गवोऽभूत् ।

स वास्तुपस्य ब्राह्मणं वेद ।

तं नूनं पुत्रा वास्तौ हित्वा प्रायासिषुरिति ।

तमाद्रुत्याब्रवीदृषे । नमस्तेऽस्तु ।

शार्यात्यभ्यो भगो मृळेति ।

अथ ह सुकन्या शार्यात्या कल्याण्यास ।

स होवाच स वै मे सुकन्यां देहीति ।

नेति होवाच ।

अन्यद्धनं ब्रूष्वेति ।

नेति होवाच ।

वास्तुपस्य वै ब्राह्मणं वेद ।

तां म इहोपनिधायासायमेवाद्य ग्रामेण यातादिति ।

ते वै त्वा मन्त्रयित्वा प्रतिब्रवामेति ।

ते होचुर्मन्त्रयित्वा -एकं वै द्वे त्रीणि परममनया धनानि लभेमह्य् । अथैनयेह सर्वमेव लप्स्यामहे ।

हन्तास्मा इमा ददामेति ।

तां हास्मै ददुः ।

तां होचुः कुमारि । स्थविरो वा अयं निष्ठावो नालमनुसरणाय ।

यदैव वयं युनजामहा । अथान्वाधावतादिति ।

सा हेयं युक्तं ग्राममनुसरिष्यन्त्यनूत्तस्थौ ।

सा होवाचाहे परिधाव सखायं जीवहायिनमिति ।

सा यदीतीयाय यदीति १२२