तं तुष्टुवानं शर्यातो मानवो ग्रामेणाध्यवास्यत् ।
तं कुमारा गोपाला अविपाला मृदा शकृत्पिण्डैरासपांसुभिरदिहन् ।
सोऽसञ्ज्ञां शार्यात्येभ्योऽकरोत् ।
तन्न माता पुत्रमजानान् । न पुत्रो मातरम् ।
सोऽब्रवीच्छर्यातो मानवः किमिहाभितः किं चिदद्रा ष्ट । यत इदमित्थमभूदिति ।
तस्मै होचुर्न नु ततोऽन्यत्स्थविर एवायं निष्ठावश्शेते ।
तमद्य कुमारा गोपाला अविपाला मृदा शकृत्पिण्डैरासपांसुभिरधिक्षन् ।
तत इदमित्थमभूदिति १२१