१२०

तासु च्यावनम् ।

च्यवनो वै भार्गवो वास्तुपस्य ब्राह्मणमवेत् ।

स पुत्रानब्रवीद्वास्तुपस्य वै ब्राह्मणं वेद ।

तं मा वास्तौ निधाय त्रिः पुनःप्रयाणं प्रयातेति ।

तेऽब्रुवन्न शक्ष्याम । आक्रोशनवन्तो भविष्यामः ।

पितरमहासिषुरिति नो वक्ष्यन्तीति ।

नेति होवाच । तेन वै यूयं वसीयांसो भविष्यथ । तेनो एव मम पुनर्युवताया आशा ।

हित्वैव मा प्रयातेति तानज्ञापयत् ।

तं सरस्वत्यै शैशवे निधाय त्रिः पुनःप्रयाणं प्रायन् ।

सोऽकामयत वास्तौ हीनः पुनर्युवा स्यां । कुमारीं जायां विन्देय । सहस्रेण यजेयेति ।

स एतत्सामापश्यत् ।

तेनास्तुत १२०