११९

असाव्यंशुर्मदाये

त्यसावीति सिमानां रूपम् ।

अप्सु दक्षो गिरिष्ठाः ।

श्येनो न योनिमासदत्

शुभ्रमन्धो देववातमप्सु धौतं नृभिस्सुतम् ।

इत्यप्सुमतीर्भवन्ति ।

आपो ह्येतदहः ।

स्वदन्ति गावः पयोभिः

आदीमश्वं न हेतारमशूशुभन्नमृताय ।

इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।

पशवो ह्येतदहः ।

मधो रसं सधमाद

इति मद्वतीर्भवन्ति ।

रसो वै मदः ।

धीतमिवैतद्यत्तृतीयसवनम् ।

तद्यदेता मद्वतीर्भवन्ति रसमेवास्मिन्नेतद्दधति ।

षवैनदेतेन प्याययन्ति ।

तासु गायत्रमुक्तब्राह्मणम् ।

अथ सन्तनि ।

वाग्वा एषा प्रतता यद्द्वादशाहः ।

तां सन्तनिनैव सन्तन्वन्ति ।

प्राणा ह खलु वै सन्तनयः ।

प्राणैर्वाक्सन्तता ।

तद्यत्सन्तनि भवति प्राणानामेव सन्तत्यै । वाचं प्राणैस्सन्तनवामेति ।

इमे वै लोकास्सन्तनय । इम उ लोका महानाम्नयः ।

तद्यत्सन्तनि भवत्येषामेव लोकानां सन्तत्यै ।

समस्मा इमे लोकास्तायन्ते य एवं वेद ।

अभि द्युम्नं बृहद्यश

इत्यभीति भवति रथन्तरस्य रूपम् ।

राथन्तरमेतदहः ।

जिन्वन्गविष्टये धिय

इद्गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।

पशवो ह्येतदहः ११९